वाचस्पत्यम्
वेदिन् || पु० विद—णिनि । १ पण्डिते शब्दर० । २ हिरण्यगर्भे च । ३ ज्ञातरि त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
वेदी || [न्] पुं, (वेत्तीति । विद् + णिनिः ।)
पण्डितः । इति शब्दरत्नावली ॥ ब्रह्म । इति केचित् ॥ ज्ञातरि, त्रि ॥ (यथा, रघुः । ८ । २७ । “स परार्द्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ॥”)