वाचस्पत्यम्
वेधस् || पु० वि + धा—असुन् गुणः । १ हिरण्यगर्भे जगत्स्रष्टरि २ विष्णौ अमरः । ३ सूर्य्ये ४ श्वेतार्कवृक्षे शब्दच० । ५ पण्डिते विश्वः ६ सूर्य्यवश्ये नृपभेदे वह्निपु० ।
शब्दकल्पद्रुमः
वेधाः || [स्] पुं, (विदधातीति । वि + धा + “विधाञो वेध च ।” उणा० ४ । २२४ । इति असिः । वेधादेशश्च सोपसर्गधातोः ।)
ब्रह्मा । (यथा, रघुः । १ । २९ । “तं वेधा विदधे नूनं महाभूतसमाधिना । तथाहि सर्व्वे तस्यासन् परार्थैकफला गुणाः ॥”)
विष्णुः । इत्यमरः ॥ (शिवः । यथा, हरिवंशे भविष्यपर्व्वणि । १५ । १२ । “नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे ॥”)
सूर्य्यः । इति शब्दरत्नावली ॥ पण्डितः । इति विश्वः ॥ श्वेतार्कवृक्षः । इति शब्दचन्द्रिका ॥ अनन्तपुत्त्रः । यथा, —
“इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् । सुद्युम्नस्य प्रतिष्ठानं तस्य पुत्त्रः पुरूरवाः ॥ नरिष्यतः शुकाः पुत्त्राः शाकं क्षत्त्रमुदाहृतम् । नाभागस्याम्बरीषोऽभूत् सक्षत्त्रं पार्थिवं ततः ॥ कोष्टवे वार्षकं क्षेत्रं रणवृष्टिर्ब्बभूव ह । शर्यातेर्मिथुनन्त्वासीदनन्तो नाम विश्रुतः ॥ सुकन्या नाम कन्या च या पत्नी यादवस्य च । अनन्तस्य च पुत्त्रोऽभूत् वेधो नाम महाप्रभुः । आनर्त्तविषये तेन पुरी कुशस्थली कृता ॥” इति वह्रिपुराणे सागरोपाख्याननामाध्यायः ॥ (प्रजापतिर्दक्षादिः । यथा, कुमारे । २ । १४ । “परतोऽपि परश्चासि विधाता वेधसामपि ॥” त्रि, मेधावी । इति निघण्टुः । ३ । १५ ॥ विविध- कर्त्ता । यथा, ऋग्वेदे । ५ । ४३ । १२ । “आ वेधसं नीलपृष्ठं बृहन्तम् ।” “कीदृशं देवं वेधसं विविधकर्त्तारम् ।” इति तद्भाष्ये सायणः ॥)