वाचस्पत्यम्
वेपस् || ब० वेप—असुन् । अनवद्ये उणादिकोषः ।
शब्दकल्पद्रुमः
वेपः || [स्] क्ली, (वेप कम्पने + “सर्व्वधातुभ्यो- ऽसुन् ।” उणा० ४ । १८८ । इत्यसुन् ।)
अन- वद्यम् । यथा, —
“स्याद्बलज्योतिषोः क्लीवं वचो वाच्यथ धातुषु । मेदो वेपोऽनवद्येऽथ सभायाञ्च सदो न ना ॥” इत्युणादिकोषः ॥ (विरेपः । इति साधुपाठः ॥ इत्युज्ज्वलः । ४ । १८९ ॥ * ॥
कर्म्म । इति निघण्टुः । २ । १ । ५ ॥ यथा, ऋग्वेदे । १० । ४६ । ८ । “प्रजिह्वया भरते वेपो अग्निः ॥” “वेपः कर्न्मनामैतत् ।” इति तद्भाष्ये सायणः ॥)