संस्कृत-शब्दकोशः

वेल्लज वेल्लनी

वेल्लन

वाचस्पत्यम्

वेल्लन ||‍ न० वेल्ल—ल्युट् । १ अश्वादेर्भूमौ लुण्ठने २ काष्ठनिर्भिते पदार्थे (वेलुत) भावप्र० ३ मालादूर्वायां स्त्री राजनि० ।


शब्दकल्पद्रुमः

वेल्लनं || क्ली (वेल्लं + ल्युट् ।)
भूमौ अश्वस्य लुण्ठनम् । तत्पर्य्यायः । लुण्ठनम् २ । इति त्रिकाण्डशेषः ॥ (सञ्चलनम् । यथा, राज- तरङ्गिण्याम् । ८ । १५९५ । “भ्रष्टा सरित् स्ववसतेर्जलधिप्रवेशे वेलोर्म्मिवेल्लनवशेन विवर्त्तमाना ॥”)
रोटिकादिनिर्म्माणार्थस्थूलवर्त्तुलकाष्ठविशेषः । इति भावप्रकाशः ॥ वेलन् इति भाषा ॥



Correction: