वाचस्पत्यम्
वेल्लन्तर || पु० वेल्लं तरति तॄ—अच् । वीरतरो “वेल्लन्तरोज तति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितनील- पुष्पः । स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात्क- ण्ठकी च जलदेशज एष वृक्षः । वेल्लन्तरो रसे पाके तिक्तस्तृष्णाकफापहः । मूत्राघाताश्मजित् ग्राही योनि मूत्रानिलार्त्तिहृत्” भावप्र० ।
शब्दकल्पद्रुमः
वेल्लन्तरः || पुं, वीरतरुः । यथा, भावप्रकाशे । “वेल्लन्तरो जगति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितनीलपुष्पः । स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात् कण्टकी च जलदेशज एष वृक्षः ॥” अस्य गुणाः । “वेल्लन्तरो रसे पाके तिक्तस्तृष्णाकफापहः । मूत्राघाताश्मजिद्ग्राही योनिमूत्रानिलार्त्ति- जित् ॥”