वाचस्पत्यम्
वेल्लित || न० वेल्ल—भावे क्त । १ गमने मेदि० । कर्त्तरि क्त । २ कम्पिते ३ कुटिले च त्रि० अमरः ।
शब्दकल्पद्रुमः
वेल्लितं || क्ली (वेल्ल + क्तः ।)
गमनम् । इति मेदिनी ॥
शब्दकल्पद्रुमः
वेल्लितः || त्रि (वेल्ल + क्तः ।)
कुटिलः । कम्पितः । इत्यमरः ॥