वेशधारिन्
वेशर
वेशन्त
वाचस्पत्यम्
वेशन्त || पु० विश—झच् । १ क्षुद्रसरोवरे अमरः । २ अग्नौ उणादि० ।
शब्दकल्पद्रुमः
वेशन्तः || पुं, (विशन्त्यत्र भेकादय इति । विश + “जॄविशिभ्यां झच् ।” उणा० ३ । १२६ । इति झच् ।)
क्षुद्रसरोवरः । इत्यमरः ॥ अग्निः इत्युणादिकोषः ॥