संस्कृत-शब्दकोशः

वेषवार वेष्टक

वेष्ट

वाचस्पत्यम्

वेष्ट ||‍ पु० वेष्ट—घञ् अच् वा । १ वेष्टने २ श्रीयेष्टे राजनि० ३ वृक्षनिर्यासे च (आटा) वैद्यकम् ।


वाचस्पत्यम्

वेष्ट ||‍ वेष्टने भ्वा० आत्म० स क० सेट् । वेष्टते अवेष्टिष्ट । चङि तु अवि(व)वेष्टत् त ।


शब्दकल्पद्रुमः

वेष्ट || ङ वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।)
ङ, वेष्टते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वेष्टः || पुं, (वेष्ट + घञ् ।)
वेष्टनम् । इति शब्द- माला ॥ (यथा, महाभारते । ७ । २५ । २७ । “ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत । करवेष्टं भीमसेनो भ्रमं दत्वा व्यमोचयत् ॥”)
श्रीवेष्टः । इति राजनिर्घण्टः ॥ निर्यासः । आटा इति भाषा ॥ इति वैद्यकम् ॥ (मुख- रोगविशेषः । यथा, सुश्रुते । २ । १६ । “दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्य्यते ॥”)



Correction: