वाचस्पत्यम्
वैणविक || त्रि० वेणोर्विकारः अण् वैणवं वेणुवाद्यं शिल्प- मस्य ठक् । वंशीवादके अमरः ।
शब्दकल्पद्रुमः
वैणविकः || त्रि (वैणवो वेणुस्तद्बादनं शिल्पमस्य । वैणव + “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।)
वेणुवादकः । तत्पर्य्यायः । वेणुघ्माः २ । इत्य- मरः ॥ वैणुकः ३ । इति शब्दरत्नावली ॥