संस्कृत-शब्दकोशः

वैणवी वैणुक

वैणिक

वाचस्पत्यम्

वैणिक ||‍ त्रि० वीणा तद्वादनं शिल्पमस्य ठक् । वीणावादके अमरः ।


शब्दकल्पद्रुमः

वैणिकः || त्रि (वीणावादनं शिल्पमस्य । वीणा + “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।)
वीणा- वादकः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ६३ । १६२ । “तच्छ्रुत्वा विहताशोऽपि हसित्वा वैणिको ययौ ॥”)



Correction: