संस्कृत-शब्दकोशः

वैण्य वैतरणि

वैतनिक

वाचस्पत्यम्

वैतनिक ||‍ त्रि० वेतनेन जीवति ठक् । वेतनोपजीवके कर्मकरे भृत्यादो अमरः ।


शब्दकल्पद्रुमः

वैतनिकः || त्रि (वेतनेन जीवतीति । वेतन + “वेतनादिभ्यो जीवति ।” ४ । ४ । १२ । इति ठक् ।)
वेतनभुग्भृत्यः । तत्पर्य्यायः भृतकः २ भृतिभुक् ३ कर्म्मकरः ४ । इत्यमरः ॥ (यथा, उपदेशशतके । २० । “वीरो वैतनिकः सन्विराटनगरोषितः कुमा- रीणाम् । नर्त्तयितार्ज्जुन आसीत् भजेदवस्थोचितां वृत्तिम् ॥”)



Correction: