संस्कृत-शब्दकोशः

वैतरणी वैतंसिक

वैतस

वाचस्पत्यम्

वैतस ||‍ पु० वेतस एव स्वार्थे अण् । अम्लवेतसे जटा० ।


शब्दकल्पद्रुमः

वैतसः || पुं, (वेतस एव । स्वार्थे अण् ।)
अम्ल- वेतसः । इति जटाधरः ॥ (पुंस्प्रजननम् । शिश्नदण्डम् । इति निघण्टुः । ३ । २९ ॥ यथा, ऋग्वेदे । १० । ९५ । ४ । “दिवा नक्तं श्नथिता वैतसेन ।” “वैतसेन शेपो वैनस इति पुंस्प्रजननस्येति निरुक्तम् । ३ । २१ । पुंस्प्रजननेन श्नथिता ताडिता भवति ।” इति तद्भाष्ये सायणः ॥ * ॥
वेतसस्यायमिति । तस्येदमिति अण् । वेतस- सम्बन्धिनि, त्रि । यथा, रघुः । ४ । ३५ । “आत्मा संरक्षितः सुह्मैर्वृ त्तिमाश्रित्य वैत- सीम् ॥”)



Correction: