वाचस्पत्यम्
वैद्यमातृ || स्त्री वैद्यस्य मातेव । १ वासके अमरः तस्य वैद्य- जीविकाप्रयोजकरोगशान्तिकरत्वेन तत्पीषकत्वात् तन्मा- तृतुल्यत्वम् ।
शब्दकल्पद्रुमः
वैद्यमाता || [ऋ] स्त्री, (वैद्यानां मातेव ।) वासकः । इत्यमरः ॥ भिषग्जननी च ॥