वाचस्पत्यम्
वैभ्राज || न० विभ्राज इदम् अण् । देवोद्यानभेदे त्रिका० । तच्च मेरोः पश्चिमविष्कम्भविपुलपर्वतस्थं विपुलशब्दे ४९१२ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
वैभ्राजं || क्ली देवोद्यानम् । इति त्रिकाण्डशेषः ॥ (यथा, मार्कण्डेये । ५५ । २ । “पूर्व्वं चैत्ररथं नाम दक्षिणे नन्दनं वनम् । वैभ्राजं पश्चिमे शैले सावित्रञ्चोत्तराचले ॥” विभ्राजराजस्य तपःस्थानम् । यथा, हरि- वंशे । २३ । १४ । “ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् ॥” पुं, पर्व्वतविशेषः । यथा, मार्कण्डेये । ५६ । १३ । “तरक्षुरिति विख्याता वैभ्राजं साचलं ययौ ।” लोकविशेषः । यथा, हरिवंशे । १८ । ४६ । “वैभ्राजा नाम ते लोका दिवि भान्ति सुद- र्शनाः ॥”)