संस्कृत-शब्दकोशः

वैयाघ्र वैयात्य

वैयाघ्रपद्य

वाचस्पत्यम्

वैयाघ्रपद्य ||‍ पु० व्याघ्रपदस्यापत्यं यञ । गोत्रकारके मुनि- भेद “वैयात्रपद्यगात्रायेति” भीष्मतपेणमन्त्रः ।


शब्दकल्पद्रुमः

वैयाघ्रपद्यः || पुं, (व्याघ्रपदोऽपत्यमिति । व्याघ्रपद् + ष्यञ् । यद्वा, व्याघ्रस्येव पादावस्य इति बहु- ब्रीहौ “पादस्य लोपः इति ।” ५ । ४ । १३८ । इति अकारलोपे गर्ग्यादित्वात् यञ् । “पादः पत् ।” ६ । ४ । १३० । इति पदादेशः । “न य्वाभ्यामिति ।” ७ । ३ । ३ । यकारात् पूर्ब्बमैच् ।)
गोत्रकारक- मुनिविशेषः । यथा, तिथ्यादितत्त्व । “वैयाघ्रपद्यगोत्राय सांकृतिप्रवराय च । अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥” (यथा, महाभारते । ४ । ६ । ११ । “युधिष्ठिरस्यासमहं पुरा सखा वैयाघ्रपद्यः पुनरस्मि विप्रः ॥”)



Correction: