वाचस्पत्यम्
वैरनिर्यातन || न० वैरस्य वैरकृतापकारस्य निर्यातनम् निर + यत—णिच् ल्युट् । वैरकृतापकारप्रतीकारे अमरः ।
शब्दकल्पद्रुमः
वैरनिर्यातनं || क्ली (वैरस्य निर्यातनम् ।)
कृताप- कारस्य प्रत्यपकारः । तत्पर्य्यायः । वैरशुद्धिः २ प्रतीकारः ३ । इत्यमरः ॥