संस्कृत-शब्दकोशः

वैरिन् वैरोचन

वैरूप्य

वाचस्पत्यम्

वैरूप्य ||‍ न० विरूपस्य भावः ष्यञ् । १ विरूपत्वे २ अननुरू- पत्वे ३ अयथाभावे ४ वस्तुनोविकारभेदे च ।


शब्दकल्पद्रुमः

वैरूप्यं || क्ली (विरूपस्य भावः ।)
विरूपता । यथा, —
“वैरूप्यमङ्गेषु कशानिपातो मौण्ड्यं तथा लक्ष्मणसन्निवेशः । एतान् वधानर्हति रूक्षवादी शास्त्रेषु दूतस्य वधो न दृष्टः ॥” इति महानाटके ५ अङ्कः ॥ (असाधारणत्वम् । यथा, महाभारते । ५ । ४३ । ७ । “निर्द्दिश्य सम्यक् प्रवदन्ति वेदा- स्तं विश्ववैरूप्यमुदाहरन्ति ॥” विसदृशत्वम् । यथा, तत्रैव । १२ । २४० । २ । “एतच्चान्नोन्यवैरूप्ये वर्त्तेते प्रतिकूलतः ॥”)



Correction: