वाचस्पत्यम्
वैषम्य || न० विषमस्य भावः ष्यञ् । विषमत्वे वैलक्षण्ये ।
शब्दकल्पद्रुमः
वैषम्यं || क्ली (विषम + भावे ष्यञ् ।)
विषमत्वम् । विषमशब्दात् भावे ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (नतोन्नतत्वम् । यथा, महाभारते । १२ । ५९ । ११४ । “समतां वसुधायाश्च स सम्यगुदपादयत् । वैषम्यं हि परं भूमेरासीदिति च नः श्रुतम् ॥” तारतम्यम् । यथा, महाभारते । ३ । २०८ । २१ । “महच्च फलवैषम्यं दृश्यते कर्म्मसन्धिषु ॥” दुःखम् । यथा, तत्रैव । ३ । ६१ । २० । “वैषम्यं परमं प्राप्तो दुःखितो गतचेनतः । भर्त्ता तेऽहं निबाधेदं वचनं हितमात्मनः ॥”)