वाचस्पत्यम्
वैहासिक || पु० विहासेऽभिरतस्तं करोति वा ठक् । नाट- कादौ प्रसिद्धे शृङ्गाररसनायकसहचरे १ विदूषके हेमच० (भांड) इति २ ख्याते लोके च ।
शब्दकल्पद्रुमः
वैहासिकः || पुं, (विहास + ठक् ।)
विहासं करोति यः । भण्ड इति ख्यातः । तत्पर्य्यायः । वासन्तिकः २ केलिकिलः ३ विदूषकः ४ प्रहासी ५ प्रीतिदः ६ । इति हेमचन्द्रः ॥ (यथा, नैषधे । १९ । ६४ । “दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानु- र्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम् ॥”)