संस्कृत-शब्दकोशः

वोरुखान वोलक

वोल

वाचस्पत्यम्

वोल ||‍ पु० वा—उलच् । गन्धरसे गन्धद्रव्यभेदे । “वोलस्तु कटुतिक्तोष्णः कषायो रक्तदोषनुत् । कफपित्तामयान् हन्ति प्रदरादिरुजापहः” राजवल्लभः । स्वार्थे क । तत्रार्थे पु० अमरः ।


शब्दकल्पद्रुमः

वोलं || क्ली (वोलयति प्रायशो निमग्नं भवतीति । वुल + अत्त । यद्वा, वा गतौ पिञ्जादित्वात् ऊलच् ।)
स्वनामख्यातबणिग्द्रव्यम् । तत्पर्य्यायः । रक्ता- पहम् २ मुण्डम् ३ सुरसम् ४ पिण्डकम् ५ विषम् ६ निर्ल्लोहम् ७ वर्व्वरम् ८ पिण्डम् ९ सौरभम् १० रक्तगन्धकम् ११ रसगन्धम् १२ महागन्धम् १३ विश्वम् १४ शुभगन्धम् १५ विश्वगन्धम् १६ गन्धरसम् १७ व्रणारिः १८ । अस्य गुणाः । “वोलञ्च कटु तिक्तोष्णं कषायं रक्तदोषनुत् । कफपित्तामयान् हन्ति प्रदरादिरुजापहम् ॥” इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “वोलं गन्धरसः प्राणपिण्डगोपरसाः समाः । वोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् ॥ मधुरं कटु तिक्तञ्च ग्रहं स्वेदत्रिदोषजित् । ज्वरापस्मारकुष्ठघ्नं गर्भाशयविशुद्धकृत् ॥” इति भावप्रकाशः ॥


शब्दकल्पद्रुमः

वोलः || पुं, (वातीति । वा + ऊलच् ।)
रसगन्धः । इत्यमरः ॥



Correction: