संस्कृत-शब्दकोशः

व्यतीहार व्यत्यास

व्यत्यय

वाचस्पत्यम्

व्यत्यय ||‍ पु० वि + अति + इण्—अच् । १ व्यतिक्रमे २ विषर्य्यये च अमरः ।


शब्दकल्पद्रुमः

व्यत्ययः || पुं, (व्यत्ययनमिति । वि + अति + इ + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।)
व्यतिक्रमः । तत्- पर्य्यायः । व्यत्यासः २ विपर्य्यासः ३ विपर्य्ययः ४ । इत्यमरः ॥ (यथा, भागवते । ७ । १० । ४४ । “परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥”)



Correction: