वाचस्पत्यम्
व्यध्व || पु० विरुद्धः अध्वा अच्समा० । कुपथे अमरः ।
शब्दकल्पद्रुमः
व्यध्वः || पुं, (विरुद्धो अध्वा । प्रादिसमासः । उपसर्गादध्वनः । इत्यच् ।)
कुत्सितपथः । तत्- पर्य्यायः । दुरध्वः २ विपथः ३ कदध्वा ४ कापथः ५ । इत्यमरः ॥ कुपथः ६ असत्पथः ७ कुत्सिसवत्मं ८ । इति शब्दरत्नावली ॥ (यथा, महाभारते । २ । ७० । २३ । “तूर्णं प्रत्यायनस्वैतान् कामं व्यध्वगतानपि ॥”)