वाचस्पत्यम्
व्यवहारपद || न० ६ त० । व्यवहारविषये ।
शब्दकल्पद्रुमः
व्यवहारपदं || क्ली (व्यवहारस्य पदम् ।)
वादिना राज्ञि निवेदनम् । (नालिस इति भाषा ॥)
यथा, याज्ञवल्क्यः । “स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञि व्यवहारपदं हि तत् ॥” स्मृतिसदाचारबहिर्भूतेन वर्त्मना परैरर्थतः शरीरतो वा पीडितश्चेद्राजनि निवेदयेत् तद्- व्यवहारदर्शनस्थानम् । चेदित्यत्र यदिति मै- थिलाः । आवेदयति चेदित्यनेन स्वयं विवादो- त्थानं राज्ञा न कर्त्तव्यमिति शूलपाणिमहा- महोपाध्यायाः ॥ राज्ञीति व्यवहारप्रदर्शक- परं तथा च बृहस्पतिः । “राजा कार्य्याणि संपश्येत् प्राड्विवाकोऽथ वा द्विजः ॥” कात्यायनः । “सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । स्वयं स राजा चिनुयात् तेषां जयपराजयौ ॥ यदा कार्य्यवशाद्राजा न पश्येत् कार्य्यनिर्णयम् । तदा नियुञ्ज्यात् विद्वांसं ब्राह्मणं वेदपारगम् ॥ यदि विप्रो न विद्वान् स्यात्र् क्षत्त्रियं तत्र योज- येत् । वैश्यं वा धर्म्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥” स विनीतवेशः । मनुः । “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मण- ब्रुवः । धर्म्मप्रवक्ता नृपतेर्न तु शूद्रः कदाचन ॥” व्यासः । “द्विजान् विहाय यः पश्येत् कार्य्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राज्यं बलं कोषश्च नश्यति ॥ दुःशीलोऽपि द्बिजः पूज्यो न शूद्रो विजिते- दुष्टां गां कः परित्यज्यार्च्चयेच्छीलवतीं खरीम् ॥” इति व्यवहारतत्त्वम् ॥