वाचस्पत्यम्
व्यंसक || पु० विगतोऽंसः स्कन्धो यस्य कप् । १ धूर्त्ते हेमच० २ स्कन्धशून्ये । “मयूरव्यंसकादयश्च” पाणिनिसूत्रम् ।
शब्दकल्पद्रुमः
व्यंसकः || पुं, (वि + + अंस + ण्वुल् ।) धूर्त्तः । इति हेमचन्द्रः ॥