संस्कृत-शब्दकोशः

व्याकृति व्याकोष

व्याकोश

वाचस्पत्यम्

व्याकोश(ष) ||‍ त्रि० वि + आ + कुश(ष) अच् व्यागतः कोशा- (षा)त् प्रा० स० वा । १ प्रफुल्ले अमरः “व्याकोशे(षे)न्दी- वराक्षी” इति तन्त्रम् ।


शब्दकल्पद्रुमः

व्याकोशः || त्रि (व्याकुश्यति प्रस्फुटतीति । वि + आ + कुश + कः ।)
विकशितः । इत्यमर- टीकायां रामाश्रमः ॥ (यथा, माघे । ४ । ४६ । “दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥” भावे घञ् । प्रस्फुटनम् । यथा, मृच्छकटिके । ३ अङ्के । “पद्मव्याकोशं भास्करं बालचन्द्रं वापीविस्तीर्णं स्वस्तिकं पूर्णकुम्भम् । तत्कस्मिन् देशे दर्शयाम्यात्मशिल्पं दृष्ट्वा श्वो यद्विस्मयं यान्ति पौराः ॥”)



Correction: