संस्कृत-शब्दकोशः

व्याघ्रदल व्याघ्रनखक

व्याघ्रनख

वाचस्पत्यम्

व्याघ्रनख ||‍ न० व्याघ्रस्य नखोऽस्त्यस्य आकारे अच् । १ नखीनामगन्धद्रव्ये अमरः । व्याघ्रस्य नख इव दला० न्यस्य । २ स्नुहीवृक्षे शब्द च० । ३ कन्दभेदे । ४ नखक्षते च मेदि० ६ त० । ५ व्याघ्रस्य नखे ।


शब्दकल्पद्रुमः

व्याघ्रनखं || क्ली (व्याघ्रस्य नखमिव ।)
नखीनाम- गन्धद्रव्यम् । तत्पर्य्यायः । व्याडायुधम् २ कर- जम् ३ चक्रकारकम् ४ । इत्यमरः ॥ नखाङ्कम् ५ नखी ६ नख्यम् ७ व्याघ्रनखी ८ । इति शब्द- रत्नावली ॥ (यथा, बृहत्संहितायाम् । ७७ । ६ । “मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वया सुकुष्ठेन रसेन चूर्णः । तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धितैलम् ॥”)
तत्पर्य्यायगुणाः । “नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् । नखं स्वल्पं नखी प्रोक्ता हनुर्हठ्ठविलासिनी ॥ नखद्बयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् । लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् । अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटुः ॥” इति भावप्रकाशः ॥ कन्दविशेषः । नखक्षतविशेषः । इति मेदिनी ॥


शब्दकल्पद्रुमः

व्याघ्रनखः || पुं (व्याघ्रस्य नखमिव कण्टकं यस्य ।)
स्नुहीवृक्षः । व्यालनखः । इति राजनिर्घण्टः । व्याघ्रस्य नखश्च ॥



Correction: