वाचस्पत्यम्
व्याघ्रपाद(द्) || पु० व्याघ्रस्य पादैव मूलमस्य वा अन्त्यलोपः । १ विकङ्कतवृक्षे अमरः । २ मुनिभेदे च ३ विकङ्कटवृक्षे राजनि० ।
शब्दकल्पद्रुमः
व्याघ्रपादः || पुं, (व्याघ्रस्य पादा इव मूलानि यस्य ।)
विकङ्कतवृक्षः । विकण्टकवृक्षः । इति राज- निर्घण्टः ॥ (मुनिविशेषः । यथा, महाभारते । १३ । १४ । १०९ । “पुराकृतयुगे तात ऋषिरासीत् महायशाः । व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ॥”)