वाचस्पत्यम्
व्याजस्तुति || स्त्री० ३ त० । १ कपटस्तुतौ २ अर्थालङ्कारभेदे च अलङ्कारशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
व्याजस्तुतिः || स्त्री (व्याजेन स्तुतिः । व्याजरूपा स्तुतिश्च ।)
कपटप्रशंसा । अलङ्कारभेदः । यथा, “उक्तिव्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुति- निन्दयोः ॥” इति चन्द्रालोकः ॥ (उदाहरणं यथा, —
“कः स्वर्धुनि ! विवेकस्ते पापिनो नयसे दिवम् ॥”)