संस्कृत-शब्दकोशः

व्याधिघात व्याधिहन्तृ

व्याधित

वाचस्पत्यम्

व्याधित ||‍ त्रि० व्याधिर्जातोऽस्य तार० इतच् । व्याधियुक्ते अमरः ।


शब्दकल्पद्रुमः

व्याधितः || त्रि (व्याधिः संजातोऽस्येति । तारका- दित्वादितच् ।)
व्याधियुक्तः । तत्पर्य्यायः । आमयावी २ विकृतः ३ अपटुः ४ आतुरः ५ अभ्यमितः ६ अभ्यान्तः ७ । इत्यमरः ॥ रोगी ८ । इति जटाधरः ॥ (यथा, हितोपदेशे । “दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥”)



Correction: