संस्कृत-शब्दकोशः

व्यालमृग व्यालायुध

व्यालम्ब

वाचस्पत्यम्

व्यालम्ब ||‍ पु० विशेषेण आलम्बते वि + आ + लवि—अच् । १ रक्तैरण्डे वैद्यकम् । विशेषेण २ लम्बमने त्रि० ।


शब्दकल्पद्रुमः

व्यालम्बः || पुं, (विशेषेण आलम्बते इति । वि + आ + लम्ब + अच् ।)
रक्तैरण्डः । इति वैद्य- कम् ॥ (लम्बमाने, त्रि । यथा, महाभारते । ७ । ८८ । १० । “व्यालम्बहस्तान् संबद्धान् सपक्षानिव पर्व्व- तान् ॥”)



Correction: