संस्कृत-शब्दकोशः

व्युदास व्युष्टि

व्युष्ट

वाचस्पत्यम्

व्युष्ट ||‍ त्रि० वि + उष—क्त वा० इडभावः । १ दग्धे २ पर्युषिते ३ प्रभाते च ४ फले ५ दिवसे च न० हेमच० ।


शब्दकल्पद्रुमः

व्युष्टं || क्ली (वि + वस् + क्तः ।)
फलम् । दिनम् । प्रभातम् । (यथा, माघे । १२ । ४ । “व्युष्टं प्रयाणञ्च वियोगवेदना विदूननारीकमभूत् समन्तदा ॥”)
पर्य्युषितम् । इति हेमचन्द्रः ॥ (प्रभातार्थे क्वचित् पुंलिङ्गोऽपि । स तु दोषायाः पुत्त्रः । यथा, भागवते । ४ । १३ । १४ । “प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्व्वतेजसमादधे ॥”)


शब्दकल्पद्रुमः

व्युष्टः || त्रि (वि + वस + क्तः ।)
उषितः । (यथा, महाभारते । ३ । ६९ । २८ । “सा व्युष्टा रजनीं तत्र पितुर्वेश्म विभाविनी ।”)
दग्धः । इति मेदिनी ॥



Correction: