वाचस्पत्यम्
व्यूति || स्त्री वि + वे—क्तिन् । १ वस्त्रादिवपनकर्मणि २ तद्वेतने (वानि) पदार्थे अमरः ।
शब्दकल्पद्रुमः
व्यूतिः || स्त्री (वि + वे अव वा + क्तिन् । “ऊतियूति- जूतीति ।” ३ । ३ । ९७ । इति निपातितः ।)
वस्त्रादिवपनक्रिया । तत्पर्य्यायः । वाणिः २ । इत्यमरः ॥ व्युतिः ३ । इति तट्टीका ॥ वाणी ४ । इति शब्दरत्नावली ॥