संस्कृत-शब्दकोशः

व्रजमोहन व्रजवल्लभ

व्रजवर

वाचस्पत्यम्

व्रजवर ||‍ पु० व्रजानां तत्स्थानां वरः प्रार्थनोयः । श्रीकृष्णे ।


शब्दकल्पद्रुमः

व्रजवरः || पुं, (व्रजे वरः श्रेष्ठः ।)
श्रीकृष्णः । स तु द्वादशाधिवनान्तर्गतजाववटाधिवनाधिपो देवः । “अथ जाववटाधिवनाधिपव्रजवरमन्त्रः । शौन- कीये । ‘वटाद्बहिः समन्तात्तु सघनं वनमास्थितम् । तमेवाधिवनं ख्यातं वटसेवापरायणम् ॥ तस्मिन्मध्ये वटं श्रेष्ठं कृष्णक्रीडावरप्रदम् । वटाद्बहिर्वनं ज्ञातं मध्ये चैव वटं स्मृतम् ॥ वटं वृक्षं स्थितं तत्र वटसंज्ञं विधीयते । वटजावानुसारेण वटलिङ्गानि दर्शयेत् ॥’ वटस्थानलिङ्गम् । ॐ ठः जाँ वटाधिवनाधि- पतये व्रजवराय नमः । इत्येकोनविंशाक्षरो जाववटाधिवनाधिपव्रजवरमन्त्रः । अनेन मन्त्रेण प्राणायामः । अस्य मन्त्रस्य व्यलीक ऋषि- र्जाववटाधिपो व्रजवरो देवता पङ्क्तिच्छन्दः मम सकलसौभाग्यसम्पत्फलप्राप्त्यर्थे जपे विनि- योगः । न्यासं पूर्व्ववत् । अथ ध्यानम् । ‘नानाशृङ्गारभूषाढ्यं राधाकृष्णं मनोहरम् । ध्यायेद्युगलमूर्त्तिञ्च वनयात्रावरप्रदम् ॥’ इति ध्यात्वा यथाशक्ति जपं कृत्वा गुह्यातीत्या- दिना जपं समर्पयेत् । इति जाववटाधिवना- धिपव्रजवरमन्त्रः ।” इति व्रजभक्तिविलासे १ अध्यायः ॥



Correction: