वाचस्पत्यम्
व्रतादेश || पु० व्रतमादिश्यतेऽत्र आ + दिश आधारे ल्युट् । उपनयने तत्र हि आचार्येण माणवकस्य व्रतमादिश्यते ।
शब्दकल्पद्रुमः
व्रतादेशः || पुं, (व्रतस्यादेशः ।)
उपनयनम् । यथा, “आदन्तजननात् सद्य आचूडादेकरात्रकम् । त्रिरात्रमाव्रतादेशात् दशरात्रमतः परम् ॥” इति शुद्धितत्त्वम् ॥