वाचस्पत्यम्
शकटहन् || पु० शकटमसुराधिष्ठितशकटभेदं हतवान् हन—भूते क्विप् । श्रीकृष्णे तत्कथा हरिवं० ६२ अ० ।
शब्दकल्पद्रुमः
शकटहा || [न्] पुं, (शकटं हन्तीति । हन् + किप् ।)
श्रीकृष्णः । इति हेमचन्द्रः ॥ (एतद्वि- वरणं भागवगे १० स्कन्धे ७ अध्याये तथा हरिवंशे ६१ अध्याये च द्रष्टव्यम ॥)
शकट- नाशके, त्रि ॥