वाचस्पत्यम्
शकुन्त || पु० शक—उन्त । १ पक्षिमात्रे । २ भासपक्षिणि ३ कीटभेदे च भेदि० ।
शब्दकल्पद्रुमः
शकुन्तः || पुं, (शक्नोति उत्पतितुमिति । शक + “शकेरुनोन्तोन्त्युनयः ।” उणा ०३ । ४९ । इति उन्तः ।)
पक्षी । इत्यमरः ॥ (यथा, महा- भारते । १ । ७२ । ११ । “नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । पर्य्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥”)
कीटभेदः । भासपक्षी । इति मेदिनी ॥