वाचस्पत्यम्
शकुलादनी || स्त्री० शकुलैरद्यते अद—ल्युट् । कट्की) शाक- भेदे अमरः । २ जटामांस्यां, ३ जलपिप्पल्यां, कट्फले च विश्वः ।
शब्दकल्पद्रुमः
शकुलादनी || स्त्री (शकुलानां अदनं यस्याः । ङीप् ।)
चक्राङ्गी । इत्यमरः ॥ कट्की इति भाषा ॥ कञ्चटशाकः । इति मेदिनी ॥ काँचडा- दाम इति भाषा ॥ मांसी । किञ्चुलिका । जलपिप्पलो । कट्फलः । इति विश्वः ॥ गजो- षणा । इति राजनिर्घण्टः ॥