संस्कृत-शब्दकोशः

शक्मन् शक्यतावच्छेदक

शक्य

वाचस्पत्यम्

शक्य ||‍ त्रि० शक—यत् । १ शक्तियुक्ते २ शक्त्या बौध्येऽर्थे । ३ समर्थनीये । ४ साधयितुं योग्ये च ।


शब्दकल्पद्रुमः

शक्यः || त्रि (शक + “शकिसहोश्च ।” ३ । १ । ९९ । इति यत् ।)
समर्थनीयः । (यथा, रघुः । २ । ४९ । “शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥”)
शक्त्याश्रयः । (यदा भावे यत् स्यात् तदा क्लीवलिङ्गः स्यात् । यथा, गीतायाम् । १८ । ११ । “नहि शक्यं देहभृता त्यक्तुं कर्म्माण्यशेषतः ॥” तथाच रामायणे । २ । १३ । ५ । “तानि सर्व्वाणि संयत्तुं शक्यं राम जितेन्द्रियैः ॥”)
पुं, वाच्योऽर्थः । यथा, —
“शक्योऽर्थोऽभिधया ज्ञेयः लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ज्ञेयस्तिस्रः शब्दस्य वृत्तयः ॥” इत्यलङ्कारशास्त्रम् ॥ अन्यच्च । “शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ।” इति भाषापरिच्छेदः ॥ अपि च । “ईश्वरसङ्केतः शक्तिस्तया अर्थबोधकं पदं वाचकम् । यथा गोत्वादिविशिष्टबोधकं गवादिपदं तद्वोध्योऽर्थो गवादिर्वाच्यः स एव मुख्यार्थ इत्युच्यते ।” इति शक्तिवादः ॥



Correction: