वाचस्पत्यम्
शक्रगोप || पु० शक्रं शक्रधनुर्गोपायति समवर्णत्वात् गुप—अण् । इन्द्रगोपे कीटे जटा० ।
शब्दकल्पद्रुमः
शक्रगोपः || पुं, इन्द्रगोपकीटः । इति जटाधरः ॥ (यथा, हरिवंशे । ६६ । ५ । “नववर्षावसिक्तानि शक्रगोपाकुलानि च । नष्टदावाग्निमार्गाणि वनानि प्रचकाशिरे ॥”)