वाचस्पत्यम्
शक्रोत्थान || न० शक्रस्य तद्ध्वजस्य उत्थानम् । भाद्रशुक्ल- द्वादश्यां कर्त्तव्ये १ शक्रध्वजस्थोत्थाने तदुपलक्षिते २ उत्सवे च । इन्द्रध्वजशब्दे ९४६ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
शक्रोत्थानं || क्ली (शक्रस्य शक्रध्वजस्य उत्थानम् ।)
शक्रध्वजोत्सवः । अस्य विधिर्लिख्यते । श्रीऔर्व्व उवाच । “अथातः शृणु राजेन्द्र शक्रोत्थानध्वजोत्सवम् । यत्कृत्वा नृपतिर्याति नो कदाचित् पराभवम् ॥ रवौ हरिस्थे द्वादश्यां श्रवणे स्रितपक्षके । आराधयेन्नृपः सम्यक् सर्व्वविघ्नोपशान्तये ॥ राजोपरिचरो नाम वसुनामापरस्तु यः । नृपस्तेनायमतुलो यज्ञः प्रावर्त्तितः पुरा ॥ प्राविट्काले च नभसि द्वादश्यामसितेतरे । पुरोहितो बहुविधैर्वाद्यैस्तूर्य्यैः समन्वितः ॥ प्रथमं शक्रकेत्वर्थे वृक्षमामन्त्र्य वर्द्धयेत् । सांवत्सरो वार्द्धकिश्च कृतकौतुकमङ्गलः ॥ उद्याने देवतागारे श्मशाने मार्गमध्यतः । ये जातास्तरवस्तांस्तु वर्जयेद्वासवध्वजे ॥ बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम् । कुब्जं वृक्षादनीयुक्तं लताच्छन्नं तरुं त्यजेत् ॥ पक्षिवाससमाकीर्णं कोटरैर्ब्बहुभिर्युतम् । पवनानलविध्वस्तं तरुं यत्नेन वर्जयेत् ॥ नारीसंज्ञाश्च ये वृक्षा अतिह्रस्वा अतिकृशाः । तान् सदा वर्जयेद्धीरः सर्व्वदा शक्रपूजने ॥ अर्ज्जुनोऽप्यश्वकर्णश्च प्रियको धव एव च । औडुम्बरश्च पञ्चैते केत्वर्थे सत्तमाः स्मृताः ॥ अन्ये च देवदार्व्वाद्याः शालाद्यास्तरवस्तथा । प्रशस्तास्तु परिग्राह्या नाप्रशस्ताः कदाचन । तञ्च वृक्षं ततो रात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत् ॥ यानि वृक्षे तु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः । उपहारं गृहीत्वेमं क्रियतां वासवध्वजः ॥ पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम । ध्वजाथदेवराजस्य पूजेयं प्रतिगृह्यताम् ॥ ततोपरेऽह्नि तं छित्त्वा मूलमष्टाङ्गुलं पुनः । जले क्षिपेत्तदग्रस्य छित्त्वैवं चतुरङ्गुलम् ॥ ततो नीत्वा पुरद्वारं केतुं निर्म्माय तत्र वै । शुक्लाष्टम्यां भाद्रपदे केतुं वेदीं प्रवेशयेत् ॥ द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते । द्वात्रिंशत्त ततो ज्यायान् द्वाचत्वारिंशदेव च । ततोऽधिकः समाख्यातो द्वापञ्चाशत्तथोत्तमः । कुमार्य्यः पञ्च कर्त्तव्याः शक्रस्य नृपसत्तम । शालमय्यस्तु ताः सर्व्वास्त्वपराः शक्रमातृकाः ॥ केतोः पादप्रमाणेन कार्य्याः शक्रकुमारिकाः ॥ मातृकार्द्धप्रमाणात्तु यन्त्रं हस्तद्वयं तथा । एवं कृत्वा कुमारीश्च मातृकां केतुमेव च ॥ एकादश्यां सिते पक्षे यष्टिं तामधिवासयेत् । अधिवास्य ततो यष्टिं गन्धद्वारादिमन्त्रकैः ॥ द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् । अच्युवं पूजयित्वा तु शक्रं पश्चात् प्रपूजयेत् ॥ शक्रस्य प्रतिमां कुर्य्यात् कानकीं दारवीं तथा । अन्यतैजसभूतां वा सर्व्वाभावे तु मृण्मयीम् ॥ तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः । ततः शुमे मुहूर्त्ते तु केतुमुत्थापयेन्नृपः ॥ वज्रहस्त सुरारिन्न बहुनेत्र पुरन्दर । क्षेमार्थं सर्व्वलोकानां पूजेयं प्रतिगृह्यताम् ॥ एह्येहि सर्व्वामरसिद्धसंघै- रभिष्टुतो वज्रधरामरेश । समुत्थितस्त्वं श्रवणाद्यपादे गृहाण पूजां भगवन् नमस्ते ॥ एवमुत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः । इति मन्त्रेण तन्त्रेण नानानैवेद्यवेदनैः ॥ आपूपैः पायसैः पानैर्गुडैर्धानाभिरेव च । भक्ष्यैर्भोज्यैश्च विविधैः पूजयेत् श्रीविवृद्धये ॥ घटेषु दशदिक्पालान् ग्रहांश्च परिपूजयेत् । साध्यादीन् सकलान्देवान् मातॄः सर्व्वास्त्वनु- क्रमात् ॥ ततः शुभे मुहूर्त्ते तु ज्ञानिवर्द्धकिसंयुतः । केतोरुत्थानभूमिन्तु यज्ञवेद्याश्च पश्चिमे । विप्रैः प्ररोहितैः सार्द्धं गच्छेद्राजा सुमङ्गलैः ॥ रज्जुभिः पञ्चभिर्ब्बद्धं यन्त्रश्लिष्टं समातृकम् । कुमारीभिश्च संयुक्तं दिक्पालानाञ्च पेटकैः ॥” पेटकैः स्थाने पट्टकैरिति च पाठः । “बृहद्भिरतिकान्तैश्च नानाद्रव्यसुपूरितैः । यथावर्णैर्यथादेशयोजितैर्व्वस्त्रवेष्टितैः ॥ युक्तं तं किङ्किणीजालैर्बृहद्घण्टौघचामरैः । भूषितं बहुरत्नैश्च माल्यैर्ब्बहुविधैस्तथा ॥ बहुपुष्पैः सुगन्धैश्च भूषितं रत्नमालया । चित्रमाल्याम्बरधरैश्चतुर्भिरपि तोरणैः ॥ उत्थापयेन्महाकेतुं राजामात्यैः शनैः शनैः । तमुत्थाप्य महाकेतुं पूजितं मण्डलान्तरे ॥ प्रतिमां तां नयेन्मूलं केतोः शक्रं विचिन्तयन् । यजेत्तं पूर्व्ववत्तत्र शचीं मातलिमेव च ॥ जयन्तं तनयं तस्य वज्रमैरावतं तथा । ग्रहांश्चाप्यथ दिक्पालान् सर्व्वाश्च गणदेवताः ॥ अपूपाद्यैः पूजयेत्तु बलिभिः पायसादिभिः । पूजितानाञ्च देवानां शश्वद्धोमं समाचरेत् ॥ होमान्ते तु बलिं दद्यात् वासवाय महात्मने ॥ तिलं घृतं चाक्षतञ्च पुष्पं दूर्व्वां तथैव च । एतैस्तु जुहुयाद्देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तमः ॥ ततो होमावसाने तु भोजयेदपि ब्राह्मणान् । एवं संपूजयेन्नित्यं सप्तरात्रं दिने दिने ॥ ब्राह्मणैः सहितो राजा वेदवेदाङ्गपारगैः । सर्व्वत्र शक्रपूजासु यज्ञेषु परिकीर्त्तितः ॥ त्रातारमिति मन्त्रोऽयं वासवस्य प्रियः सदा । एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः ॥ श्रवणर्क्षयुतायान्तु द्बादश्यां पार्थिवः स्वयम् । अन्त्यपादे भरण्यास्तु निशि शक्रं विसर्जयेत् ॥ सुप्तेषु सर्व्वलोकेषु यथा राजा न पश्यति । षण्मासान्मृत्युमाप्नोति राजा दृष्ट्वा विसर्जनम् ॥ शक्रस्य नृपशार्द्दूल तस्मान्नेक्षेत तं नृपः । विसर्ज्जनस्य मन्त्रोऽयं पुराविद्भिरुदीरितः ॥ सार्द्धं सुरासुरगणैः पुरन्दर शतक्रतो । उपहारं गृहीत्वेमं महेन्द्रध्वज गम्यताम् ॥ सूतकेतुसमुत्पन्ने वारे भौमस्य वा शनेः । भूमिकम्पादिकोत्पाते वासवं न विसर्जयेत् ॥ उत्पाते सप्तरात्रन्तु तथोपप्लवदर्शने । व्यतीत्य शनिर्भौमौ च ह्यन्यर्क्षेऽपि विसर्ज्जयेत् ॥ मृतके त्वथ संप्राप्ते व्यतीते सूतके पुनः । तस्मिंस्तस्मिन् दिने चैव सूतकान्ते विसर्ज्जयेत् ॥ तथा रक्षेन्नृपः केतुं पतन्ति शकुना यथा । न केतौ नृपशार्द्दूल यावन्नपि विसर्जनम् ॥ शनैः शनैः पातयेत्तु यथोत्थापनमादितः । कृतं तथान्यथा भग्ने केतौ मृत्युमवाप्नुयात् ॥ विसृष्टं शक्रकेतुं तं सालङ्कारं तथा निशि । क्षिपेदनेन मन्त्रेण त्वगाघे सलिले नृपः ॥ तिष्ठ केतो महाभाग यावत् संवत्सरं जले । भवाय सर्व्वलोकानामन्तरायविनाशक ॥ उत्थापयेत्तूर्य्यरवैः सर्व्वलोकस्य वै पुरः । रहो विसर्जयेत् केतुं विशेषोऽयं प्रपूजने ॥ एवं यः कुरुते पूजां वासवस्य महात्मनः । स चिरं पृथिवीं भुक्त्वा वासवं लोकमाप्नुयात् ॥ न तस्य राज्ये दुर्भिक्षं नेतयो नाप्यधर्म्मकृत् । स्थास्यन्ति मृत्युर्नाकाले जनानां तत्र जायते ॥ तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्य पार्थिव । तस्य पूजा सर्व्वपूजा केशवाद्याश्च तत्रगाः ॥ सकलकलुषहारि व्याधिदुर्भिक्षनाशि सकलभवनिवेशं सर्व्वसौभाग्यकारि । सुरपतिगृहगामीहार्च्चनं शक्रकेतोः प्रतिशरदमनेकैः पूजयेत् श्रीविवृद्ध्यै ॥” इति श्रीकालिकापुराणे ८८ अध्यायः ॥