वाचस्पत्यम्
शङ्कुला || स्त्री शकि—उलच् । १ उत्पलपत्रिकायाम् संक्षिप्तसा० पूगच्छेदकास्त्रभेदे (जाँति) शङ्कुलाखण्डः इति सि० कौ० ।
शब्दकल्पद्रुमः
शङ्कुला || स्त्री (“शङ्कुपूर्व्वात् लातेः ‘आतोऽनुप- सर्गे कः ।’ ३ । २ । ३ । इति के शङ्कुला ।” इत्यु- णादिवृत्तौ उज्ज्वलः । १ । ३७ ॥ “शङ्कुपूर्व्वा- ल्लातेर्घञर्थे कविधानमिति वा कप्रत्ययः ।” इति काशिका । ६ । २ । २ ।)
उत्पलपत्रिका । इति संक्षिप्तसारोणादिवृत्तिः ॥ पूगकर्त्तनी । जाँती इति भाषा । इति केचित् ॥