वाचस्पत्यम्
शङ्खनख || पु० शङ्खस्य नस्त्र इव । १ क्षुद्रशङ्खे (जोङ्गडा) अमरः । २ नखीनामगन्धद्रव्ये शब्दर० स्त्रीत्वमपि तत्र ङीष् ।
शब्दकल्पद्रुमः
शङ्खनखः || पुं, क्षुद्रशङ्खः । जोङ्गडा इति भाषा । इत्यमरभरतौ ॥ (यथा, महाभारते । १३ । ५० । २० । “नग्नैः शङ्खनखैर्गात्रैः क्रोडैश्चित्रैरिवार्पितम् ॥”)
नखीनामगन्धद्रव्यम् । इति शब्दरत्नावली ॥ बृहन्नखी । यथा, —
“महांस्त्वसौ शङ्खनखः शङ्खाख्यो गन्धसारणः ।” इति रत्नमाला ॥