संस्कृत-शब्दकोशः

शङ्खभृत् शङ्खमूल

शङ्खमुख

वाचस्पत्यम्

शङ्खमुख ||‍ पुंस्त्री० शङ्ख इव मुखमस्य । कुम्भोरे हेमच० । स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

शङ्खमुखः || पुं, (शङ्खवत् मुखं यस्य ।)
कुम्भीरः । इति हेमचन्द्रः ॥ (नागविशेषः । यथा, महा- भारते । १ । ३५ । ११ । “नागः शङ्खमुखश्चैव तथा कुष्माण्डकः परः ॥”)



Correction: