संस्कृत-शब्दकोशः

शटि शट्टक

शटी

वाचस्पत्यम्

शटी is an alternate of शटि. शटि(टी) ||‍ स्त्री शट—इन् वा ङीप् । (वन आदा) स्वनाम- ख्याते ओषघिभेदे “शटी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका । गन्धा- रिका गन्धवधूर्वधूः पृथुपलाशिका । भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः । तिक्ता तीक्ष्णा च कटु काऽनुष्णास्यमलनाशिनी । शोषकासव्रणश्वासशूलाध्मान ग्रहापहा भावप्र० ।


शब्दकल्पद्रुमः

शटी || स्त्री (शटि + वा ङीष् ।)
स्वनामख्यातौ- षधिः । वन आदा इति भाषा । कचूर इति हिन्दी भाषा । तत्पर्य्यायः । गन्धमूली २ षड्ग्रन्थिका ३ कर्व्वूरः ४ पलाशः ५ । इत्य- मरः ॥ सटी ६ षटी ७ गन्धशटी ८ कर्व्वुरः ९ कर्च्चूरः १० । इति भरतादयः ॥ सुगन्धा ११ सटिः १२ शटिः १३ गन्धमूला १४ गन्धोलिः १५ गन्धमूलकः १६ । इति शब्दरत्नावली ॥ गन्ध- सटा १७ बधूः १८ गन्धमूलम् १९ । इति जटाधरः ॥ जीमूतमूलम् २० कच्छोरम् २१ हिमजा २२ । इति रत्नमाला ॥ हैमी २३ षड्ग्रन्थिः २४ सुव्रता २५ गन्धाली २६ पलाशा २७ हिमा २८ । इति ग्रन्थान्तरम् ॥ षड्ग्रन्था २९ आम्लनिशा ३० सुगन्धमूला ३१ गन्धाली ३२ शटीका ३३ पलाशिका ३४ सुभद्रा ३५ तृणी ३६ दूर्व्वा ३७ गन्धा ३८ पृथुपलाशिका ३९ सौम्या ४० हिमोद्भवा ४१ गन्धबधूः ४२ । अस्या गुणाः । तिक्तत्वम् । अम्लरसत्वम् । लघुत्वम् । उष्णत्वम् । रुचि- कारित्वम् । ज्वरकफास्रकण्डुव्रणदोषरक्तामय- ध्वंसकारित्वम् । हृद्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । अथ गन्धपलाशी सुगन्धद्रव्यं काश्मीरे प्रसिद्धम् । “शटी पलाशी षड्ग्रन्था सुव्रता गन्ध- मूलिका । गन्धारिका गन्धवधूर्वधूः पृथुपलाशिका ॥ भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः । तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी । शोषकासव्रणश्वासशूलाध्मानग्रहापहा ॥” इति भावप्रकाशः ॥



Correction: