शण
शणपर्णी
शणघण्टिका
वाचस्पत्यम्
शणघण्टिका || स्त्री शणः घण्टेव तत्तुल्यरवफलकत्वात् इवार्थे कन् । घण्टारवतुल्यफलायाम् शणपुष्प्यां राजनि० ।
शब्दकल्पद्रुमः
शणघण्टिका || स्त्री (शणस्य घण्टेव तत्तुल्यशब्द- कारिफलवत्त्वात् । इवार्थे कन् । टापि अत इत्वम् ।)
शणपुष्पी । इति राजनिर्घण्टः ॥