संस्कृत-शब्दकोशः

शणपुष्पिका शणसूत्र

शणपुष्पी

वाचस्पत्यम्

शणपुष्पी ||‍ स्त्री शणस्येव पुष्पमस्याः ङीप् । (झाझने) वनशणे स्वार्थे क । तत्रैव ।


शब्दकल्पद्रुमः

शणपुष्पी || स्त्री (शणस्य पुष्पमिव पुष्पमस्याः ।)
क्षुपविशेषः । शणहुली इति शणै इति वन- शणै इति च भाषा । तत्पर्य्यायः । बृहत्- पुष्पी २ शणिका ३ शणघण्टिका ४ पीतपुष्पी ५ स्थूलफला ६ लोमशा ७ माल्यपुष्पिका ८ । अस्या गुणाः । क्षुद्रतिक्तत्वम् । वमिकारित्वम् । रसनियामकत्वञ्च । इति राजनिर्घण्टः ॥



Correction: