शतकुम्भ
शतक्रतु
शतकोटि
वाचस्पत्यम्
शतकोटि || पु० शतं कोटयोऽग्राणि यस्य । १ वज्रे अमरः । शतगुणिता कोटिः शाक० । २ शतगुणितकोटिसं- ख्यायां स्त्री ।
शब्दकल्पद्रुमः
शतकोटिः || पुं, (शतं कोटयोऽग्राः शिखा यस्य ।)
वज्रम् । इत्यमरः ॥ वृन्दसंख्या लीलावतीमते अब्जसंख्या ॥