वाचस्पत्यम्
शतधृति || पु० शतं धृतयोऽस्य । १ इन्द्रे २ ब्रह्मणि मेदि० ३ स्वर्गे च विश्वः ।
शब्दकल्पद्रुमः
शतधृतिः || पुं, इन्द्रः । (यथा, महिम्नः स्तोत्रे । “रथः क्षौणी यन्ता शतधृतिरगेन्द्रो धनुरथो ॥”)
ब्रह्मा । इति मेदिनी ॥ (यथा, भागवते । ७ । ४ । १ । “एवं वृतं शतधृतिर्हिरण्यकशिपोरथ ॥”)
स्वर्गः । इति विश्वः ॥