वाचस्पत्यम्
शतपद्म || न० शतदलयुक्तं पद्मम् । १ शतदलकमले २ श्वेतपद्मं च रत्नमा० ।
शब्दकल्पद्रुमः
शतपद्मं || क्ली श्वेतकमलम् । यथा, — “शतपद्मं महापद्मं पुण्डरीकं सिताम्बुजम् ॥” इति रत्नमाला ॥