वाचस्पत्यम्
शतसहस्र || न० शतगुणितं सहस्रं शाक० । लक्षसंख्यायाम् ।
शब्दकल्पद्रुमः
शतसहस्रं || क्ली (शतगुणितं सहस्रम् । मध्यपद- लोपिकर्म्मधारयः ।)
शतगुणितसहस्रम् । लक्ष- मिति यावत् । यथा हारीतः । मणिवासो गवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत् पञ्च मध्यमे दशोत्तमे द्वादशरात्रं पयोव्रतं शतसहस्र- मसत्प्रतिग्रहेष्विति । इति शुद्धितत्त्वम् ॥ (यथा च हरिवंशे । १२१ । १३ । “अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः ॥”)